|
|
 |
 |
|
|
१८ स्वर्गारोहणपर्व.jpg)
स्वर्गारोहणपर्व - अध्याय 006
॥ श्रीः ॥
18.6. भारतश्रवणव…
भारतश्रवणविध्यध्यायः।
Mahabharata - SwargarohaNa Parva - Chapter Text
जनमेजय उवाच।
भगवन्केन विधिना श्रोतव्यं भारतं बुधैः।
फलं किं के च देवाश्च पूज्या वै पारणेष्विह॥ 18-6-1(98661)
देयं समाप्ते भगवन्किं च पर्वणिपर्वणि।
वाचकः कीदृशश्चात्र एष्टव्यस्तद्ब्रवीहि मे॥ 18-6-2(98662)
वैशम्पायन उवाच। 18-6-3x(8102)
शृणु राजन्विधिमिमं फलं यच्चापि भारतात्।
श्रुताद्भवति राजेन्द्र यत्त्वं मामनुपृच्छसि॥ 18-6-3(98663)
दिवि देवा महीपाल क्रीडार्थमवनिं गताः।
कृत्वा कार्यमिदं चैव ततश्च दिवमागताः॥ 18-6-4(98664)
हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः।
ऋषीणां देवतानां च सम्भवं वसुधातले॥ 18-6-5(98665)
अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः।
आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः॥ 18-6-6(98666)
गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा।
सिद्धा धर्मः स्वयंभूश्च मुनिः कात्यायनो वरः॥ 18-6-7(98667)
गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः।
ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा॥ 18-6-8(98668)
स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरम्।
भातरे भरतश्रेष्ठ एकस्थमिह दृश्यते॥ 18-6-9(98669)
तेषां श्रुत्वा प्रतिष्ठानं नामकर्मानुकीर्तनात्।
कृत्वाऽपि पातकं घोरं सद्यो मुच्येत मानवः॥ 18-6-10(98670)
इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः।
संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते॥ 18-6-11(98671)
तेषां श्राद्धानि देयानि श्रुत्वा भारत भारतम्।
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ॥ 18-6-12(98672)
महादानानि देयानि रत्नानि विविधानि च।
गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः॥ 18-6-13(98673)
सर्वकामगुणोपेता यानानि विविधानि च।
कभवनानि विचित्राणि भूमिर्वासांसि काञ्चनम्॥ 18-6-14(98674)
वाहनानि च देयानि हया मत्ताश्च वारणाः।
शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलंकृताः॥ 18-6-15(98675)
यद्यद्गृहे वरं किञ्चिद्यद्यदस्ति महद्वसु।
तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः॥ 18-6-16(98676)
श्रद्धया परया युक्तं क्रमशस्तस्य पारगः।
शक्तितः सुमना हृष्टः सुश्रूषुरविकल्पकः॥ 18-6-17(98677)
सत्यार्जवरतो दान्तः शुचिः शौचसमन्वितः।
श्रद्धधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु॥ 18-6-18(98678)
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः।
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः॥ 18-6-19(98679)
रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः।
दानमानगृहीतश्च कार्यो भवति वाचकः॥ 18-6-20(98680)
अविलम्बमनायस्तमद्रुतं धीरमुर्जितम्।
असंसक्ताक्षरपदं स्वरभावसमन्वितम्॥ 18-6-21(98681)
त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम्।
वाचयेद्वाचकः स्वस्थः स्वासीनः सुसमाहितः॥ 18-6-22(98682)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं(व्यासं) चैव ततो जयमुदीरयेत्॥ 18-6-23(98683)
ईदृशाद्वाचकाद्राजञ्श्रुत्वा भारत भारतम्।
नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते॥ 18-6-24(98684)
पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयन्।
आग्निष्टोमस्य यज्ञस्य फलं वै लभते नरः॥ 18-6-25(98685)
अप्सरोगणसंकीर्णं विमानं लभते महत्।
प्रहृष्टः स तु देवैश्च दिवं याति समाहितः॥ 18-6-26(98686)
द्वितीयं पारणं प्राप्य सोतिरात्रफलं लभेत्।
सर्वरत्नमयं दिव्यं विमानमधिरोहति॥ 18-6-27(98687)
दिव्यमाल्यांबरधरो दिव्यगन्धविभूषितः।
दिव्याङ्गदधरो नित्यं देवलोके महीयते॥ 18-6-28(98688)
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत्।
वसत्यमरसंकाशो वर्षाण्ययुतशो दिवि॥ 18-6-29(98689)
चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम्।
उदितादित्यसंकाशं ज्वलन्तमनलोपमम्॥ 18-6-30(98690)
विमानं विबुधैः सार्धमारुह्य दिवि गच्छति।
वर्षायुतानि भने शक्रस्य दिवि मोदते॥ 18-6-31(98691)
षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम्।
कैलासशिखराकारं वैदूर्यमणिवेदिकम्॥ 18-6-32(98692)
परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम्।
विमानं समधिष्ठाय कामगं साप्सरोगणम्॥ 18-6-33(98693)
सर्वांल्लोकान्विचरते द्वितीय इव भास्करः।
अष्टमे राजसूयस्य पारणे लभते फलम्॥ 18-6-34(98694)
चन्द्रोदयनिभं रम्यं विमानमधिरोहति।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः॥ 18-6-35(98695)
सेव्यमानो वरस्त्रीणां चन्द्रात्कान्ततरैर्मुखैः।
मेखलानां निनादेन नूपुराणां च निःस्वनैः॥ 18-6-36(98696)
अङ्के परमनारीणां सुखसुप्तो विबुध्यते।
नवमे क्रतुराजस्य वाजिमेधस्य भारत॥ 18-6-37(98697)
काञ्चनस्तंभनिर्यूहवैदूर्यकृतवेदिकम्।
जांबूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम्॥ 18-6-38(98698)
सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः।
विमानं समधिष्ठाय श्रिया परमया ज्वलन्॥ 18-6-39(98699)
दिव्यमाल्यांबरधरो दिव्यचन्दनरूषितः।
मोदते दैवतैः सार्धं दिवि देव इवापरः॥ 18-6-40(98700)
दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च।
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम्॥ 18-6-41(98701)
रत्नवेदिकसम्बाद्यं वैदूर्यमणितोरणम्।
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम्॥ 18-6-42(98702)
गन्धर्वैर्गीतकुशलैरप्सरोभिश्च शोभितम्।
विमानं सुकृतावासं सुखेनैवोपपद्यते॥ 18-6-43(98703)
मुकुटेनाग्निवर्णेन जांबूनदविभूषिणा।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः॥ 18-6-44(98704)
दिव्याँल्लोकान्विचरति दिव्यैर्भोगैः समन्वितः।
विबुधानां प्रसादेन श्रिया परमया युतः॥ 18-6-45(98705)
अथ वर्षगणानेवं स्वर्गलोके महीयते।
ततो गन्धर्वसहितः सहस्राण्येकविंशतिम्॥ 18-6-46(98706)
पुरंदरपुरे रम्ये शक्रेण सह मोदते।
दिव्ययानविमानेषु लोकेषु विविधेषु च॥ 18-6-47(98707)
दिव्यनारीगणाकीर्णो निवसत्यमरो यथा।
ततः सूर्यस्य भवने चन्द्रस्य भवने तथा॥ 18-6-48(98708)
शिवस्य भवने राजन्विष्णोर्याति सलोकताम्।
एवमेतन्महाराज नात्र कार्या विचारणा। 18-6-49(98709)
श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम।
वाचकस्य तु दातव्यं मनसा यद्यदिच्छति॥ 18-6-50(98710)
हस्त्यश्वरथयानानि वाहनानि विशेषतः।
कटके कुण्डले चैव ब्रह्मसूत्रं तथा परम्॥ 18-6-51(98711)
वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः।
देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात्॥ 18-6-52(98712)
अतः परं प्रवक्ष्यामि यानि देयानि भारते।
वाच्यमाने तु विप्रेभ्यो राजन्पर्वणिपर्वणि॥ 18-6-53(98713)
जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ।
धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप॥ 18-6-54(98714)
स्वस्ति वाच्य द्विजानादौ ततः कार्ये प्रवर्तिते।
समाप्ते पर्वणि ततः स्वशक्त्या पूजयेद्द्विजान्॥ 18-6-55(98715)
आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम्।
विधिवद्बोजयेद्राजन्मधुपायसमुत्तमम्॥ 18-6-56(98716)
ततो मूलफलप्रायं पायसं मधुसर्पिषा।
आस्तीके भोजयेद्राजन्दद्याच्चैव गुडौदनम्॥ 18-6-57(98717)
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम्।
सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्विजान्॥ 18-6-58(98718)
आरण्यके मूलफलैस्तर्पयेत्तु द्विजोत्तमान्।
अरणीपर्व चासाद्य जलकुम्भान्प्रदापयेत्॥ 18-6-59(98719)
तर्पणानि च मुख्यानि वन्यमूलफलानि च।
सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत्॥ 18-6-60(98720)
विराटपर्वणि तथा वासांसि विविधानि च।
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम्॥ 18-6-61(98721)
भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान्।
भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम्॥ 18-6-62(98722)
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम्।
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम्॥ 18-6-63(98723)
शराश्च देया राजेन्द्र चापान्यसिवरास्तथा।
कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम्॥ 18-6-64(98724)
विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः।
शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः॥ 18-6-65(98725)
अपूपैस्तर्पणैश्चैव सर्वमन्नं प्रदापयेत्।
गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत्॥ 18-6-66(98726)
स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान्।
घृतौदनं पुरस्ताच्च ऐषीके दापयेत्पुनः॥ 18-6-67(98727)
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम्।
शान्तिपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान्॥ 18-6-68(98728)
आश्वमेधिकमासाद्य भोजनं सार्वकामिकम्।
तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद्द्विजान्॥ 18-6-69(98729)
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम्।
महाप्रास्थानिके तद्वत्सर्वकामगुणान्वितम्॥ 18-6-70(98730)
स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान्।
हरिवंशसमाप्तौ तु सहस्रं भोजयेद्द्विजान्॥ 18-6-71(98731)
गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत्।
तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव॥ 18-6-72(98732)
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः।
सुवर्णेन च संयुक्तं वाचकाय निवेदयेत्॥ 18-6-73(98733)
हरिवंशे पर्वणि च पायसं तत्र भोजयेत्।
पारणेपारणे राजन्यथावद्भरतर्षभ॥ 18-6-74(98734)
समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः।
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः॥ 18-6-75(98735)
शुक्लांबरधरः स्रग्वी सुचिर्भूत्वा स्वलङ्कृतः।
अर्चयेत् यथान्यायं गन्धमाल्यैः पृथक्पृथक्। 18-6-76(98736)
संहितापुस्तकान्राजन्प्रयतः सुसमाहितः।
भक्ष्यैर्माल्यैस्च पेयैश्च कामैश्च विविधैः शुभैः॥ 18-6-77(98737)
हिरण्यं च सुवर्णं च दक्षिणामथ दापयेत्।
सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रयतात्मना॥ 18-6-78(98738)
तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम्।
यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये॥ 18-6-79(98739)
सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः।
देवताः कीर्तयेत्सर्वा नरनारायणौ तथा॥ 18-6-80(98740)
ततो गन्धैश्च माल्यैश्च स्वलङ्कृत्य द्विजोत्तमान्।
तर्पयेद्विविधैः कानैर्दानैश्चोच्चावचैस्तथा॥ 18-6-81(98741)
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः।
प्राप्नुयाच्च क्रतुफलं तथा पर्वणिपर्वणि॥ 18-6-82(98742)
वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः।
भविष्यं श्रावयेद्विद्वाञ्भारतं भरतर्षभ॥ 18-6-83(98743)
भुक्तवत्सु द्विजेन्द्रेषु यथावत्सम्प्रदापयेत्।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम्॥ 18-6-84(98744)
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा।
ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः॥ 18-6-85(98745)
ततो हि वरणं कार्यं द्विजानां भरतर्षभ।
सर्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः॥ 18-6-86(98746)
इत्येषि विधिरुद्दिष्टो मया ते द्विपदांवर।
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि॥ 18-6-87(98747)
भारश्रवणे राजन्पारणे च नृपोत्तम।
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता॥ 18-6-88(98748)
भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत्।
भारतं भवने यस्य तस्य हस्तगतो जयः॥ 18-6-89(98749)
भारतं परमं पुण्यं भारते विविधाः कथाः।
भारतं सेव्यते देवैर्भारतं परमं पदम्॥ 18-6-90(98750)
भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ।
भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि तत्॥ 18-6-91(98751)
महाभारतमाख्यानं क्षितिं गां च सरस्वतीम्।
ब्राह्मणान्केशवं चैव कीर्तयन्नावसीदति॥ 18-6-92(98752)
वेदे रामायणे पुण्ये भारते भरतर्षभ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते॥ 18-6-93(98753)
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः।
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता॥ 18-6-94(98754)
एतत्पवित्रं परममेतद्धर्मनिदर्शनम्।
एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता॥ 18-6-95(98755)
कायिकं वाचिकं चैव मनसा समुपार्जितम्।
तत्सर्वं नाशमायाति तमः सूर्योदये यथा॥ 18-6-96(98756)
अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत्।
तत्फलं समवाप्नोति वैष्णवो नात्र संशयः॥ 18-6-97(98757)
स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः।
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः॥ 18-6-98(98758)
दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम्।
वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता॥ 18-6-99(98759)
स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंवृताम्।
वाचकाय च दद्याद्धि आत्मनः श्रेय इच्छता॥ 18-6-100(98760)
अलङ्कारं प्रदद्याच्च पाण्योर्वै भरतर्षभ।
कर्णस्याभरणं दद्याद्धनं चैव विशेषतः॥ 18-6-101(98761)
भूमिदानं समादद्याद्वाचकाय नराधिप।
भूमिदानसमं दानं न भूतं भविष्यति॥ 18-6-102(98762)
शृणोति श्रावयेद्वाऽपि सततं चैव यो नरः।
सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात्॥ 18-6-103(98763)
पितॄनुद्धरते सर्वानेकादशसमुद्धवान्।
आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ॥ 18-6-104(98764)
दशांशश्चैव होमोपि कर्तव्योत्र नराधिप।
इदं मया तवाग्ने च प्रोक्तं सर्वं नरर्षभ॥ ॥ 18-6-105(98765)
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां हरिवंशोक्तभारतश्रवणविधावध्यायः॥ स्वर्गारोहणपर्व सम्पूर्णम्॥ 18 ॥ श्रीमन्महाभारतं सम्पूर्णम्॥
----------
इदं स्वर्गारोहणपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1832 सन 1910. अनेन मुद्रणेन श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवः प्रीयताम्।
-----------
Mahabharata - SwargarohaNa Parva - Chapter Footnotes
18-6-1x यद्यप्ययध्यायो दाक्षिणात्यकोशेषु क्वापि न दृश्यते तथापि "भगवन्नित्यादिः पलाध्यायो व्यासेन हरिवंशान्ते उक्तः अत्र श्रोतृप्ररोचनार्थमुक्त" इति नीलकण्ठीयव्याख्यानोक्तप्रयोजनायैवास्माभिरपीह स्थापितः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|